मधुकर्कटीफलम्
एतत् मधुकर्कटीफलम् अपि सस्यजन्यः आहारपदार्थः । एषा मधुकर्कटी आङ्ग्लभाषायां Carica papaya इति उच्यते । कदली इव मधुकर्कटी अपि शलाटुदशायां शाकत्वेन उपयुज्यते । किन्तु सा एव यदा पक्वा भवति तदा तु फलायते । मधुकर्कटीसस्यं क्रान्तिवलयभूमौ प्रायः सर्वत्र वर्धते । भारते तु सर्वत्र दृश्यते एतत् । मधुकर्कट्यां बहवः औषधीयगुणाः सन्ति । यदा सस्यछेदः क्रियते तदा एतस्मात् सस्यात् श्वेतः द्रवविशेषः निर्गच्छति । फलदशायाम् एषः द्रवविशेषांशः सान्द्ररुपेण सङ्गृहीतः भवति ।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/5/50/Starr_061105-1376_Carica_papaya.jpg/150px-Starr_061105-1376_Carica_papaya.jpg)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/8/84/Carica_papaya_-_K%C3%B6hler%E2%80%93s_Medizinal-Pflanzen-029.jpg/150px-Carica_papaya_-_K%C3%B6hler%E2%80%93s_Medizinal-Pflanzen-029.jpg)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/d/d9/Carica_papaya_seedling_macro.jpg/200px-Carica_papaya_seedling_macro.jpg)
आयुर्वेदस्य अनुसारम् अस्य मधुकर्कटीफलस्य स्वभावः
सम्पादयतु- १. मधुकर्कटीफले पपेननामकः अंशः यथा, तथा ’ए’जीवसत्त्वम् अपि आधिक्येन भवति ।
- २. मधुकर्कटी वर्धमानानां बालानां कृते उत्तमः आहारः एषः ।
- ३. पक्वतादशायां मधुकर्कटी जीवसत्त्वस्य आकरः भवति ।
- ४. पक्वायाः मधुकर्कटयाः खादनेन भवन्ति बहवो लाभाः । मधुकर्कटी मलबद्धतां यथा तथा अतिसारमपि निवारयति ।
- ५. एषा मधुकर्कटी क्षुधावर्धिका अपि ।
- ६. अल्पाहारस्य अर्धघण्टातः पूर्वं यदि प्रतिदिनं मधुकर्कटी सेव्येत, तर्हि रक्तचापपीडा निगृहीता भवेत् निश्चयेन ।
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विकिपीडियाद्वितीयविश्वयुद्धम्संस्कृतम्कालिदासःविशेषः:अन्वेषणम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:साहाय्यम्t87zdविकिपीडिया:General disclaimerविकिपीडिया:स्तम्भपञ्चकम्अभिज्ञानशाकुन्तलम्yxyn5विश्वकोशःसंस्कृतविकिपीडियाविकिपीडिया:विचारसभाविकिपीडिया:स्वागतम्डा जे जे चिनायभारतम्बाणभट्टःअरुणाचलप्रदेशराज्यम्प्रकल्पः:विषयेअद्वैतवेदान्तः१८४६अन्ताराष्ट्रियमानकपुस्तकसङ्ख्यासाहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?काव्यम्स्वराः (सङ्गीतम्)नरेन्द्र मोदीविशेषः:नूतनपरिवर्तनानिमहाभारतम्१८१६पी टी उषा१८३२मेघदूतम्१६५३१८५८पुराणम्